पूर्वम्: ५।२।११७
अनन्तरम्: ५।२।११९
 
सूत्रम्
शतसहस्रान्ताच्च निष्कात्॥ ५।२।११८
काशिका-वृत्तिः
शतसहस्रान्ताच् च निष्कात् ५।२।११९

शतान्तात् सहस्रान्तात् च प्रातिपदिकात् ठञ् प्रत्ययो भवति मत्वर्थे तौ चेत् शतसहस्रशब्दौ निष्कात् परौ भवतः। निष्कशतम् अस्य अस्ति नैष्कशतिकः। नैष्कसहस्रिकः। सुवर्णनिष्कशतम् अस्य अस्ति इति अनभिधानान् न भवति।
न्यासः
शतसहरुआआन्ताच्च निष्कात्?। , ५।२।११८

बाल-मनोरमा
शतसहरुआआन्ताच्च निष्कात् १९००, ५।२।११८

शतसहरुआ। निष्कात्पराविति। असामर्थ्येऽपि सौत्रत्वात्समास इति भावः।